पूर्वम्: ६।३।१०५
अनन्तरम्: ६।३।१०७
सूत्रम्
कवं चोष्णे॥
६।३।१०६
काशिका-वृत्तिः
कवञ्चोष्णे
६।३।१०७
उष्णशब्दे उत्तरपदे कोः कवम् इत्ययम् आदेशो भवति, का च विभाषा। कवोष्णम्, कोष्णम्, कदुष्णम्।
न्यासः
कवञ्चोष्णे।
, ६।३।१०६
बाल-मनोरमा
कवं चोष्णे
१०१८, ६।३।१०६
कवं चोष्णे। कवं का च वेति। विभाषेत्यनुवृत्तेरिति भावः। उभयाऽभावे कदादेशः। तथा च रूपत्रयम्। तदाह--कोष्णं कवोष्णं कदुष्णमिति।